User:Susreesangeeta888
- अहो!!! #इह_बाणभट्टः_बभूव
विविधदेशदेशान्तरपर्यटनसमर्जितासीमितानुभवस्याथसद्गुरुसमधिगतसम्यज्ज्ञानदूरीकृतध्वान्तनिवहस्यसमस्तमानवमानससूक्ष्मतमभावानुभवनिपुणस्यसकलसहृदयहृदयारविन्ददलवृन्दसमुद्घाटनभास्करस्यविरचितस्वकीयातुलनीयकृतिसम्प्राप्तानन्तकीर्तिपुञ्जस्योपमोत्प्रेक्षारूपकातिशयोक्तिसमासोक्तिपरिसंख्याविरोधाभासाप्रस्तुतप्रशंसाद्यलङ्कारसंयोजनपराभूतभाविकविनिवहस्य वाग्देवतावतारभूतबाणभट्टस्य नाम नाकर्णितं केन संस्कृतसाहित्यसमाराधनशीलेन? अर्थात् सर्वजनसंवद्योऽयं कविः। कविरसौ बाणभट्टस्समग्रे साहित्याम्बरे सर्वोत्कृष्टमहौजसेन दिनकरेव संशोभते। सुरभारत्याः वरदपुत्रोऽसौ गद्यकारेषु शिरोमणित्वं भजते। कवेरस्य जीवनचरितं हर्षचरिताख्यग्रन्थयादौ विस्तरेण वर्णितं वर्तते। किं बहुना कविकुलकमलदिवाकरस्यास्य चित्रभानुसुनोः(कुत्रचित् मित्रभानुरपि) बाणभट्टस्य जन्म हर्षवर्धनस्य सम्राजश्शासनकाले 606-648ई0 विद्यमानः आसीदित्यैतिहासिकाः स्वीकुर्वन्ति । हर्षवर्धनेनास्य महती निन्दाऽकर्णिता येनासौ स्वप्रातिभवैलक्षण्यसंवलितसम्मानं झगिति न प्राप्तवान्। यथोक्तं "महानयं भुजङ्गः" इति । अमुना कृता कादम्बरीति कथा संस्कृतवाङ्मये सर्वजनविश्रुता। चाप्ययं ग्रन्थः स्वोत्कृष्टभाषाशैल्यात् भट्टकवेर्प्रतिभाप्रसादाच्चाद्यापि मणिरिव प्रकाशमानो वर्तते, कविना स्वयमेवोक्तं यत् - 'धिया निबद्धेयमतिद्वयी कथा' कथाग्रन्थत्वमुक्तमिति कादम्बर्याः। कथायामस्यां नायकस्य जन्मत्रयवृत्तान्तमङ्गीकरोतीति। जटिलेयं कथा पूर्वार्धे चोत्तरार्धे विभक्तम् । तत्र भाषाभावयोर्रीतिरोजयोस्सालङ्कारैः भावगाम्भीर्यस्य समावेशश्च महता प्रयासेन विनिवेष्टितं वर्तते। अनेन कारणेनास्या कादम्बर्यास्सौन्दर्यदर्शनीयमेवनिर्वचनियमपि। खिलसाहित्यवाङ्मयस्य ललामभूतस्यास्य कवेर्प्रतिभा समग्रगुणगुम्फिता सर्वोत्कृष्टा सहृदयजनसंवेद्या च वर्तते मन्येऽस्य महिमामण्डने यल्लेखनीयं स्यात् तदपि तेनास्य वैशिष्ट्यं वर्तते