User:Sury933634900
समस्तप्रत्यक्षीकरणस्य कार्यं मनेव सम्पादयति। मनेव पश्यति श्रृणोति च।
अथर्ववेदस्य प्रस्तुतमन्त्रे सूत्ररूपेण विविधमनोवैज्ञानिकविषयाणां दर्शनं भवति-
मनसे चेतसे धिये आकूतये उत चित्तये।
मत्यै श्रुताय चक्षसे विधेम हविषा वयम्।।'
मन्त्रेऽस्मिन् 'मनसे' इत्यनेन संवेदना (Sensation) एवञ्च प्रेरणा (Motivation) एतयोः ग्रहणं भवति। 'चेतसे' इति पदेन चेतना (Consciousness) चिन्तनञ्च (Thinking) एतौ अभिप्रेतौ भवतः । 'धिये' अनेन ध्ययनम् अवधानं वा गृह्यते (Attention)। 'आकूतये' इत्यस्य ग्रहणमर्थद्वये भवति अर्थात् अनेन अनुभूतिः (Feeling), संवेग: (Emotion) एतयोः ग्रहणम्। 'चित्तये' शब्दोऽयं चित्तस्य धर्मस्मरणस्य (Remembering) एवञ्च तद्भावरूपे विस्मरणस्य (Forgetting) ग्राहकोऽस्ति । 'मत्यै' अनेन बुद्धिः (Intelligence) अभिप्रेतरूपास्ति । 'श्रुताय' श्रवण-पठन-शिक्षणञ्च (Learning) च द्योतयति। 'चक्षसे' अनेन चक्षुकार्यस्य दर्शनस्य अथवा प्रत्यक्षीकरणस्य (Perception) ग्रहणं भवति ।
मनसः गतिः तीव्रतमा, इयं शान्तिभावेन न तिष्ठति। अनेनैव गीतायाम् अस्य निग्रहाय अभ्यासवैराग्योपाययोः उपदेशः वर्तते अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते। मनः ज्ञानकर्मणोः साधनम्। मनः 'दक्ष' अर्थात् ज्ञानयुक्तमेवञ्च कर्तृः अर्थात् क्रियाशीलं इत्युच्यते।