Jump to content

User:Sima Xess

From Wikipedia, the free encyclopedia
शिक्षा :-

शिक्षा नाम वेदतन्त्राणामुच्चारणं, अतः उच्चारणप्रकारः यत्र शिक्ष्यते सा शिक्षा इति । यथा वेदस्य पडङ्गानि तथैव शिक्षायाः अपि षडङ्गानि भवन्ति- वर्णः, स्वर, मात्रा, बलम्, साम-सन्तान इत्यादयः । वर्णानां स्वरज्ञानाय उच्चारणाय च अस्याः मुख्यतया आवश्यकमिति त । पाणिनीयशिक्षानुसार ६३) अथवा ६४) ६४ वर्णाः वेदे सन्तीति । तत्र २१ स्वरवर्णाः, २५ स्पर्शवर्णाः, ८यायः, ४यमाः, ४ अनुस्वार विसर्गजिह्वामूलीयोपाच्चानीयाः, दुःस्पृष्टः, प्तृतलुकारः । वेदे स्वरः विविधः भवति । वा उदात्त, अनुदात्तः, स्वरितः । एते त्रयः स्वराः केवलं सामवेदे दृश्यते । तत्रापि १ २ ३ एवं संख्याक्रमेण प्रदीयते । किन्तु अग्वेदे यजुर्वेद अथर्ववेदे उदात्तचिह्न न दीयते । अपि तु तत्र उपरिभागे स्वरितचिह्न भवति अधोभागे अनुदात्तचिह्न भवति। स्वरितस्वरः सप्तविधः (क्षिप्र-प्रश्लिष्ट-पादकृत-प्रतिहत-तैरोव्यञ्जन-तैरोविराम-तायाभाव) भवति । वेदे अष्टौ विकृतयः सन्ति । यथा-

जटामालाशिखारेखा ध्वजो दण्डो रथो घनः । अष्टौ विकृतयः प्रोक्ताः क्रमपूर्वाः महर्षिभिः ।।

आदौ वेदाध्यायी संहितां पठेत् । संहिता नाम मन्त्रसमूहः इति । संहितायाः अनन्तरं वेदपाठिनः पदपाठं कुर्वन्ति। पद‌पाठः इत्युक्ते पदानां विच्छेदे पदपाठः अर्थात् पृथक् पृथक् पदानां पाठः भवति चेत् पदपाठः इत्युच्यते । यथा अग्नीमिले इत्यत्र अग्निम् ईले इति । पुनश्च पदपाठान्ते क्रमपाठः । क्रमपाठः नाम क्रमानुसारं पदद्वयस्य द्वययोः पाठः क्रमपाठः इति । यथा *अग्निमीले पुरोहितं यज्ञस्य इति । कर्मात् अनन्तरं जटापाठः । जटापाठः इत्युक्ते पदद्वयस्य विपरीतत्वेन पाठः जटापाठः यथा- ईले अग्निम् इति । जटायाः अनन्तरं शिखापाठः इति । जटापाठेन अन्यएकपदस्य योगेन शिखापाठः भवति । उदाहरणं यथा- ईले अग्निम् पुरोहितम् इति । एवं सर्वान्ते घनपाठः क्रियते । मात्रायाः चत्वारः भेदाः सन्ति । यथा एकमात्रकालिकः हस्वः (अ,इ,उ), द्विमात्राकालिकः दीर्घः (आ, ई, ऊ), त्रिमात्राकालिकः प्लुतः (अ३, ३३), अर्धमात्राकालिकः व्यञ्जनमात्रा (क् खम् घ् ङ) इति । वलम् इत्युक्ते उच्चारणं स्थानं प्रयत्नश्वेति । अर्थात् प्रातिशाख्ये कस्य वर्णस्य किम् उच्चारणस्थानमिति निर्दिष्टमस्ति । यथा अकुहविसर्जनीयानां कण्ठः इति । अर्थात् अकार-कवर्ग-विसर्गस्य कण्ठस्थानं भवतीति । प्रयत्नः द्विविधः आभ्यन्तरः बाह्यश्च । वर्णानां स्पष्टोच्चारणं साम इत्युच्यते । सन्धिनियमादीनां ज्ञानं सन्तानमिति ।

गीती शीघ्री शिरः कम्पी तथा लिखितपाठकः

अनर्थज्ञोऽल्पकण्ठश्च षडेते पाठकाधमाः ।। माधुर्यमक्षरव्यक्तिः पदच्छेदस्तु सुस्वरः धैर्य लयसमर्थ च षडेते पाठकगुणाः ।।

(५०) (64)

ऋग्वेदः-पाणिनीयशिक्षा (ऋक्यातिशाख्यम्) पाणिनीयशिक्षायां ६० श्लोकाः ६४वर्णाः सन्ति । ऋक्प्रातिशाख्यस्य कर्ता शौनक, ऋक्प्रातिशाख्ये अष्टादशपटलानि सन्ति ।

शुक्लयजुर्वेदः-याज्ञवल्क्यशिक्षा, वशिष्ठी, कात्यायनी, माण्डव्य, माध्यान्दिनी, केशकी, वाजसेनयी इत्यादयः । शुक्लयजुर्वेदस्य यजुः प्रातिशाख्यम् अस्ति । यजुःप्रातिशाख्यस्य कर्ता कात्यायनः । अत्र ८ अध्यायाः सन्ति । (४) कृष्णयजुर्वेदः व्याससिक्षा । अस्याः शिक्षायाः कर्ता व्यासः । कृष्णयजुर्वेदस्य तैतरीयप्रातिसाख्यं वर्तते । तैतरीयप्रातिशाख्यस्य कर्ता तिरिरिः । अस्मिन् प्रातिशाख्ये २४ अध्यायाः सन्ति । सामवेदः-नारदीयशिक्षा । अस्याः कर्ता मुनिः नारदः । अस्य समिवेदस्य प्रातिशाख्यद्वयं

वर्तते । यथा पुष्यसूत्रम् ऋक्तन्त्रश्च । पुष्यसूत्रस्य कर्ता मुनिः पुष्यः, अत्र १० प्रपाठकाः सन्ति । ऋक्तन्त्रस्य कर्ता (शाकटायनः अत्र ५ प्रपाठकाः, २८० सूत्राणि च सन्ति। अथर्ववेदः- माण्डूकीशिक्षा ।