Jump to content

User:Sima P Das

From Wikipedia, the free encyclopedia
              भारतीया संस्कृतिः 

सत्याहिसागुणैः श्रेष्ठा, विश्वबन्धुत्वशिक्षिका । विश्वशान्तिसुखाधात्री, भारतीया हि संस्कृतिः ॥

का नाम संस्कृतिः- भारतीयसंस्कृतेर्विवृतिविचारे बहवोऽनुयोगाः समापतन्ति चेतसि। का नाम संस्कृतिः ? कथमिवैषोपकरोत्यात्मनी मनसो जनस्य देशस्य संस्कृतेर्वा ? हेयोपादेयोपेक्ष्या वैषा ? उपादेया चेदियं किं स्यात् स्वरूपमस्याः साम्प्रतिक्यां लोकस्थितौ ? कास्तावत् प्रातिस्विक्यो भारतीयसंस्कृतेः ? किमिव हि साध्यं क्षेममिह लोकस्य संस्कृत्याऽनया ? कानि च सन्ति कारणानि विश्वसंस्कृतावादृतेरस्याः ? इत्यादयः। संस्करणं परिष्करणं चेतस आत्मनो वा संस्कृतिरिति समभिधीयते। सा नाम संस्कृतिर्या व्यपनयति मलं मनसः, चाञ्चल्यं चेतसः, अज्ञानावरणमात्मनश्च। पापापनयनपूर्वकमेषा प्रसादयति स्वान्तम्, दुर्भावदमनपूर्वकं संस्थापयति स्थैर्यं चेतसि, मनःशुद्धिपुरःसरं पावयत्यात्मानमपहरति च चित्तभ्रमम्।

संस्कृतेर्महत्त्वम्- संस्कृतिरेवैषा चेतः प्रसादयति, मनोऽमलीकुरुते, दुर्भावान् दमयते, दुर्गुणान् दारयति, पापान्यपाकुरुते, दुःखद्वन्द्वानि दहति, ज्ञानज्योतिर्ध्वलंयति, अविद्यातमोऽपहन्ति, भूर्ति भावयति, सुखं साधयति, धृतिं धारयति, गुणानागमयति, सत्यं स्थापयति, शान्ति समादधाति च। न केवलमेषोपकर्जी व्यष्टेरपितु समष्टेरपि जीवनभूता। उपकरोति चैषाऽऽत्मनो मनसो लोकस्य राष्ट्रस्य संसृतेश्च। अजस्रमेषोपादेया सर्वेरेव स्वसुखमभीप्सुभिः। स्वोन्नतिमभीप्सता न शक्या केनाप्येषा हातुमुपेक्षितुं वा। उज्झितोपेक्षिता वैषा परिर्णस्यते स्वात्मविनाशाय, लोकाहिताय च। अङ्गीकृतेऽस्या उपादेयत्वं तदेव स्यादस्याः स्वरूपं यत् साम्प्रतिक्या लोकसंस्थित्या नातितरां सम्भिद्येत । विविधाचारविचार-वादव्याकुले विश्वेऽस्मिन् सैव संस्कृतिरुपादेयतामप्स्यति या समेषां स्वान्ते सद्भावाविर्भावपुरःसरं विश्वहितं, विश्वबन्धुत्वं, विश्वोपकरणं चादर्शत्वेनोररी- कुर्यात्। अतः सिध्यत्यदो यद् विश्वजनीना संस्कृतिरेव साम्प्रतमुपादानर्महति। सैव च

तापत्रयसन्तप्तं जगत् तापापनयनेन सुखनिधानं सम्पादयितुं प्रभवति। भारतीयसंस्कृतेर्वैशिष्ट्यम् - भारतीयसंस्कृतेः काश्चन प्रातिस्विक्यो मुख्या विशेषा वाऽत्र प्रस्तूयन्ते -

१. धर्मप्राधान्यम्- मानवेषु धर्मप्राधान्यमेव तान् व्यवच्छेदयति पशुभ्यः। अत उक्तम्- 'धर्मो हि तेषामधिको विशेषो धर्मेण हीनाः पशुभिः समानाः। न हि धर्मपदेन कश्चन सम्प्रदायविशेषोऽत्र विवक्षितः । जगद्धारकाणि मूलतत्त्वानि यमाख्यया व्याख्यातानि

२. आध्यात्मिकी भावना-

जीवनमेतन्न केवलं भोगार्थमेव, अपित्वात्मोन्नतेः प्रमुखं साधनम्। आध्यात्मिकी भावना मानवं देवत्वं प्रापयति। स सर्वेष्वपि जीवेष्वेकत्वं समीक्षते। समग्रमपि प्राणिजातं परेशेनैवोत्पादितमिति विचारं विचारं तत्रैकत्वमनुभवति। जगदिदं परमात्मना व्याप्तम्। 'ईशावास्यमिदं सर्वं यत् किञ्च जगत्यां जगत्' (ईशोपनिषद् १)। 'यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति। सर्वभूतेषु चात्मानं ततो न विजुगुप्सते' (ईशोप०६)। 'यस्मिन् सर्वाणि भूतान्यात्मैवाभूद् विजानतः।

नाम- सीमा दास अनुक्रमांक- 23355 कक्षा- शिक्षा शास्त्री