User:Shibapriyanaik444
: महाकविः कालिदासः संस्कृतसाहित्यस्य सर्वश्रेष्ठः कविरस्ति । तेन विरचितानि मालविकाग्निमित्रम्, विक्रमोर्वशीयम्, अभिज्ञानशाकुन्तलम् चेति त्रीणि नाटकानि सन्ति। एतेषु नाटकेषु अभिज्ञानशाकुन्तलं तु न केवलं संस्कृतसाहित्यस्य अपितु विश्वस्य सर्वश्रेष्ठ नाटकमस्ति ।
उच्यते यत्-
"काव्येषु नाटकं रम्यं तत्र रम्या शकुन्तला ।"
शाकुन्तलनाटकस्य वैशिष्ट्यविषये जर्मनकवेः गेटे महोदयस्य भावं द्योतयता एकेन विदुषा कथितं यत्-
"एकीभूतमभूतपूर्वमथवा स्वर्लोकभूलोकयोः ऐश्वर्य यदि वाञ्छसि प्रियसखे । शाकुन्तलं सेव्यताम् ॥"
सप्त-अङ्कात्मके नाटकेऽस्मिन् दुष्यन्तशकुन्तलयोः कथा तथा तयोः शिशोः भरतस्य शौर्य वर्णितम्। तस्य भरतस्य नाम्ना एव अस्माकं देशस्य नाम "भारतवर्षम्" इति प्रसिद्धम् अस्ति। नाटकेऽस्मिन् भरतवाक्यमाध्यमेन महाकविः कथयति-
"प्रवर्ततां प्रकृतिहिताय पार्थिवः सरस्वतीश्रुतिमहतीमहीयताम् । ममापि च क्षपयतु नीललोहितः, पुनर्भवं परिगतशक्तिरात्मभूः ॥"
मालविकाग्निमित्रनाटकं पञ्चाङ्कात्मकमस्ति । अत्र मालविका अग्निमित्रयोः कथा वर्णितास्ति। विक्रमोर्वशीयनाटके उर्वशी-पुरूरवयोः कथा पञ्चाङ्गेषु वर्णिता। अस्मिन् नाटके भरतवाक्यमाध्यमेन कामयते कविः यत्-
"सर्वस्तरतु दुर्गाणि, सर्वो भद्राणि पश्यतु । सर्वः कामानवाप्नोतु, सर्वः सर्वत्र नन्दतु ॥"
तस्य कुमारसम्भवम्, रघुवंशम् चेति नामके द्वे महाकाव्ये प्रसिद्धे स्तः। कुमारसम्भवमहाकाव्ये सप्तदशसर्गेषु स्वामिकार्तिकेयस्य अवतारकथा तारकासुरस्य वधवृत्तान्तञ्चास्ति । रघुवंशमहाकाव्ये नवदशसु सर्गेषु रघुवंशीयानां पराक्रमवर्णनं तथा तेषाम् उदात्तचरित्रनिरूपणं तेन कृतम्।
तेन मेघदूतम् ऋतुसंहारञ्च द्वे खण्डकाव्ये विरचिते। मेघदूते पूर्वमेघः उत्तरमेघश्चेति द्वौ भागौ स्तः। अस्मिन् कांव्ये मेघः यक्षस्य दूतः अभवत्। सः मेघः दूतरूपेण रामगिरितः हिमालयस्थाम् अलकापुरीं गच्छति। दूतमार्गस्य वर्णनं नैसर्गिकम् अतीवरमणीयं चास्ति।
ऋतुसंहारे षऋतूणां प्राकृतिकसौन्दर्य मनोवैज्ञानिकञ्च वर्णितम्। कालिदासस्य उपमा विश्वप्रसिद्धा। उच्यते च "उपमा कालिदासस्य।" कथावर्णने चरित्रचित्रणे च सः प्रवीणः। तस्य वर्णनशैली सरसा-सरला परिष्कृता चास्ति। तस्य भाषा भावानुगामिनी ।
भार्या विद्योत्तमा तस्य परोक्षप्रेरिका आसीत् परन्तु एषः कालिदासः परवर्तिसाहित्योपासकानां कविकुलगुरुः अस्ति। कालिदासस्य ग्रन्थानामनुवादः प्रायः विश्वस्य सर्वासु भाषासु सञ्जातः ।
उज्जयिनी तस्य जन्मस्थली इति केचित् अन्ये विदर्भमपि मन्यन्ते वैदर्भीरीतितर्केण मेघदूतप्रमाणेन च। अद्यापि उज्जयिन्याम् अन्यत्र च प्रतिवर्षं देवप्रबोधिन्यां कालिदास महोत्सवः विशिष्टरूपेण आयोज्यते । यतः तस्य मेघदूते यक्षस्य शापमोक्षः देवप्रबोधिन्यामेव जातः। यक्षव्याजेन महाकविः आत्मव्यथां प्रस्तुतवान् इति विदुषां मतम्। अतः देवप्रबोधिनी तिथिः महाकवेः उत्सवदिवसः न तु जन्मदिवसः। जन्मदिवसस्तु शोधविषयो वर्तते।
अपि च उक्तम्-
पुरा कवीनां गणनाप्रसङ्गे कनिष्ठिकाधिष्ठितकालिदासः। अद्यापि तत्तुल्यकवेरभावादनामिका सार्थवती बभूव ।।