User:Prahlad shukla123
स्वरसन्धयः
स्वरसन्धयो ऽष्टविधाः । तथा हि-
१. यण्सन्धिः
२. यान्तवान्तादेशसन्धिः
३. गुणसन्धिः
४. वृद्धिसन्धिः
५. सवर्णदीर्घसन्धिः
६. पूर्वरूपसन्धिः
७. पररूपसन्धिः
८. प्रकृतिभावः
१. यण्सन्धिः
*यण् - य् व् र् ल्
अत्र आदेशाभावः ।
*इ ई उ ऊ ऋ ऋ ल इत्येतेभ्यो वर्णेभ्योऽसवर्णे स्वरे परे 'इ ई' इत्यनयोः स्थाने यकारः, उ ऊ इत्यनयोः स्थाने वकारः, ऋऋ इत्यनयोः स्थाने रकारः (रेफः), लकारस्य स्थाने लकारश्च आदेशो भवति । यथा -
१. प्रति + एकम्
प्रत् + य् + एकम् = प्रत्येकम् । (इ = य्)
२. नदी + अत्र
नद् + य् + अत्र नद्यत्र । (ई य्)
१. वधू + ङस् + आगमन स् षष्ठी, कृत्तद्धितसमासाश्च वधू + आगमन - सुपो धातुप्रातिपदिकयोः
वध् + व् + आगमन - इको यणचि
वध्वागमन + स् = स्वौजसमौट् ...
वध्वागमन + अम् - अतोऽम्
वध्वागमनम् - अमि पूर्वः वध् + ङस् + आगमन + स् इत्यवस्थायां षष्ठीसमासे प्रातिपदिकसंज्ञायां सुप्प्रत्यययोलेपि यण्सन्धौ समुदायात् सुप्रत्यये, अमादेशे, पूर्वरूपे च वध्वागमनम् इति सिद्धं भवति । एषः 'वघ्वागमनम्' इत्यस्य समस्तस्य पदस्य प्रक्रियाक्रमः । एतासु प्रक्रियासु यण्सन्धिरपि प्रविष्टः। स च यण् वधू + आगमन इत्यवस्थायां प्रवर्तते, न तु वधू + आगमनम् इत्यवस्थायाम् । सन्धिप्रवृत्त्यनन्तरमेव सुबुत्पत्तेः । समासे सर्वत्र एषा एव सरणिः शास्त्रीया ।
२. गो + य = गोपयसोर्यत्
ग् + अव् + य - एचोऽयवायावः
गव्य + स् = स्वौजसमौट्
गव्य + अम् = अतोऽम्
गव्यम् - अमि पूर्वः ।
गो इति प्रातिपदिकात् 'य'प्रत्यये अवादेशे, सुप्रत्यये, अमादेशे, पूर्वरूपे च गव्यम् इति रूपं भवति । अत्रापि गो+ य इत्यवस्थायां अवादेशः प्रवर्तते, न तु गो + यम् इत्यवस्थायाम् । सन्धिप्रवृत्त्यनन्तरमेव सुबुत्पत्तेः । प्रत्यये परे सर्वत्र एषा एव शास्त्रीया सरणिः । किन्तु ग्रन्थेऽस्मिन् एषा सरणिः न आश्रिता ।
अतः वधू + आगमनम् इत्यवस्थायां यणादेशः इति, गो यम् इत्यवस्थायाम् अवादेशः इति च निरूपणं कृतम् ।
इत्थमेव ग्रन्थे ऽस्मिन् सर्वत्र निरूपितम्। तत्र तु कारणं - प्रायः अध्यापन- परिपाटी एव । बालमनोरमादिव्याख्याने ऽपि क्रमोऽयं क्वचित् दृश्यते ।