User:JasodaGamango(33)
शास्त्रशिक्षणम्
१. शास्त्रम् - शासु अनुशिष्टौ ष्ट्रन् प्रत्यये शास्त्रमिति रूपं सिध्यति । शास्ति त्रायते चेति शास्त्रम् । ऋग्यजुः सामाथर्वा च भारतं पञ्चरात्रकम् । मूलरामायणं चैव
शास्त्रमित्यभिधीयते" । (स्कन्दपुराणे) शास्त्रतो गुरुतश्चैव स्वतश्चेति त्रिसिद्धयः ।
सर्वत्र पुरुषार्थस्य न दैवस्य कदाचन । लोके कार्यसिद्धिः त्रिधा भवति । तत्राद्यं शास्त्रं भवति । यत् जीवने पुरुषार्थचतुष्टयसम्पादकं ज्ञानं यच्छति तत् शास्त्रं भवति । यच्च रामादिवत् वर्तितव्यं न रावणादिवत् इति कर्तव्याकर्तव्यज्ञानं ददाति तदेव शास्त्रमित्युच्यते ।
इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ इति गुह्यतमं कर्तव्याकर्तव्यपरिज्ञानजनकं शास्त्रं भवति इति भगवद्गीता ।
शास्त्रं हि निश्चितधियां क्व न सिद्धिमेति (माघ) अतः सर्वसिद्धिप्रदायकमस्ति शास्त्रम् ।
तानि च शास्त्राणि व्याकरणन्याययोगमीमांसावेदान्तादीनि प्रसिद्धानि अध्ययन परम्परायां वर्तन्ते ।
२. मङ्गलाचरणम् - मं पापं गलयति इति मङ्गलम् । सर्वेषामपि कर्मणामनुष्ठाने
आदौ मङ्गलाचरणस्य परम्परा अस्माकं संस्कृतौ, संस्कृते, शास्त्रेषु, ग्रन्थप्रणयने च वर्तते । न्यायशास्त्रे अस्यविशेषविचारः अधिकरणनिरूपणे निबद्धः अवलोक्यते । कर्मादौ क्रियमाणं मङ्गलं त्रिविधमिति वदन्ति शास्त्रकाराः । एकया दृष्ट्या कायिकं वाचिकं मानसिकमिति त्रिविधमिति । अन्यया दृष्ट्या मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि कर्माणि इति व्यवहारः कदापि वा मङ्गलस्यानुष्ठानं भवतु स्वरुप दृष्ट्या आद्योक्तं त्रिविधम् अनुष्ठेयधर्मत्वेन स्वीक्रियन्ते । तत्रादौ कायिकं नाम करशिरसंयोगरुपम् । वाचिकं नाम नमश्शब्दोच्चारणात्मकं । मानसिकं स्वापकर्षबोधात्मकम् । एतादृशमङ्गलमेव कर्मणः समाप्ति सम्पादने कारणं भवति । समाप्ति कामो मङ्गलमाचरेदिति आभियुक्तोक्तिः । मङ्गलस्य फलमपि कर्मसमाप्तिरेव । मङ्गलं सफलं समाप्त्यन्याफलकत्वे सति समाप्ति फलकत्वादित्युनुमानेन मङ्गलस्य समाप्तिफलकत्वं सिध्यति । केषुचित् ग्रन्थेषु अविद्यमानेऽपि मङ्गले समाप्तिः दृश्यते। तत्रापि मानसिकं मङ्गलमस्ति इत्येव मन्तव्यम् । रामायणस्य मङ्गलं -
"मानिषाद प्रतिष्ठां त्वमगमः शाश्वती समाः । यत्क्रौञ्चमिथुनादेकं अवधीः काममोहितम् " ॥
कुमारसम्भवस्य मङ्गलम् -
"अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः
पूर्वापरौ तोयनिधीवगाह्य स्थितः पृथव्या इव मानदण्डः" ॥
रघुवंशस्य मङ्गलम्-
"वागर्थाविव संपृक्तौ वागर्थ प्रतिपत्तये । जगतः पितरौ वन्दे पार्वतीपरमेश्वरी" ॥
साहित्यस्यप्रयोजनम् - " काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिर्वृतये कान्तासंहिततयोपदेशयुजे" ॥
न्याय तत्त्वानां ज्ञानसम्पादनम् ।
मीमांसा - धर्माधर्मयोः विवेकप्राप्तिः।
वेदान्त - ब्रह्मज्ञान सम्पादनम्। या विद्या सा विमुक्तये । मोक्षप्रातिः
ज्योतिषम् - कालज्ञानसम्पादनम् ।
४. शास्त्राणि - व्याकरणम्
सूत्रकारः - पाणिनिः, भाष्यकारः पतञ्जलिः, वार्तिककारः वररुचिः। प्रसिद्धग्रन्थाः - महाभाष्यम् अष्टाध्यायी, सिद्धान्तकौमुदी, परिभाषेन्दुशेखरः, लघुमशब्देन्दुशेखरः, मूलं -
माहेश्वर सूत्राणि । "नृत्तावसाने नटराज राजः ननादढक्कां नवपञ्चवारम् । उद्धर्तुकामः सनकादिसिद्धान् एतद्विमर्शे शिवसूत्रजालम् "।
वृद्धिरादैच् आद्यं सूत्रम् । न्यायवैशोषिकम् - अस्य मूलम्
गौतमन्यायसूत्रम् (अक्षपादः) भाष्यं वात्स्यायन, न्यायवार्तिकं - उद्योतकर, वाचस्पतिमिश्रः एतेषां वार्तिकाणां न्यायवार्तिकतात्पर्यटीकां लिलेख । उदयनः न्यायवार्तिकतात्पर्यटीकापरिशुद्धिं लिलेख । विश्वनाथः सूत्रवृत्तिं लिखितवान् । वैशोषिकपदार्थविचारः द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः सप्तपदार्थाः । महत्त्व 1 प्रतिज्ञाहेतूदाहरणोपनयनिगमनमिति पञ्चावयवात्मकम् अनुमानम् । पर्वतोवह्निमान् इति प्रतिज्ञा । धूमादिति हेतुः । यत्र-यत्र धूमः तत्र तत्र वह्निः महानसवत् इत्युदाहरणम् । वह्निव्याप्यवान् अयं पर्वतः इति उपनयः। तस्मात् बह्निमानयं पर्वतः इति निगमनम् । " इन्द्रियार्थ सन्निकर्षजन्यं ज्ञानं प्रत्यक्षम्" ।
त्वगिन्द्रिय जन्यं त्वाचप्रत्यक्षम् । चक्षुरिन्द्रिय जन्यं चाक्षुषप्रत्यक्षम् । श्रोत्रोन्द्रियजन्यं श्रोतृप्रत्यक्षम् । न्द्रियजन्यं रसनेन्द्रियजन्यमिति । अनुमिति करणमनुमानं । परामर्शजन्यं ज्ञानमनुमितिः व्याप्तविशिष्टपक्षताधर्मताज्ञानं परामर्शः । वह्निव्याप्य धूमवानयं पर्वतः इति ज्ञानं परामर्शः । तज्जन्यं पर्वतो वह्निमानिति ज्ञानमनुमितिः । साहचर्य नियमो व्याप्तिः । यत्र-यत्र धूमः तत्र-तत्र वह्निः इति सहचरितत्वम् । व्याप्यस्य पक्षनिरुपितवृत्तित्वं पक्षधर्मता । हेतोः पक्षे सत्वं पक्षधर्मता । यत्र साध्यते सः पक्षः। येन साध्यते सः हेतुः । यत् अनुमीयते तत् साध्यम् स्वार्थानुमानपरार्थामुमानमिति भेदः पर्वतोवह्निमानित्युनुमित्योत्पद्यमानमनुमानं स्वार्थानुमानम् । लिङ्गपरामर्शोऽनुमानम् ।