User:Devrajsinghrajpuut
- #साहित्यशास्त्रपरम्परा **
साहित्यशास्त्रपरम्परा प्राचीनतरा इति विदितो विषयः । वैदिकालतः अद्यावधिपर्यन्तमविच्छिन्नसरसधारया रसिकान् धर्मादिसाधनसाधनाय प्रचोदयमाना प्रवहति। अलङ्कारशास्त्रस्याद्याचार्याः भामहभट्टाः काव्यलक्षणं प्रणयन्प्रोचुः ‘शब्दार्थौ सहितौ काव्यम्’ इति । अभिप्रायोऽयं शब्दार्थयोस्सहभावात्मिका विद्या साहित्यं तदेव काव्यम्। एतदुत्तरवर्तिभिः काव्याचार्यैः काव्ये शब्दार्थयोः साहित्यमित्युरीकृतम् । अत एवोक्तं राजशेखरेण ‘शब्दार्थयोर्यथावत्सहभावेन विद्या साहित्यविद्या ।
इत्थं वर्षसहस्रात् प्राक्कश्चन विश्वामित्रनामकस्तापसः स्वशिष्यसङ्घातैश्शतद्रुविपाशतटिनीतटे समाजगाम्। अगाधपयःपूरिते ते अवलोक्य ऋषेः भावावेशभरितदोलायमानहृदयवेगादकस्मात् कविता प्रस्फुटिता-
प्रपर्वतानामुशतीम् उपस्थादश्वे इव विषिते हासमाने। गावेव शुभ्रे मातरा रिहाणे विपाट्छुतुद्री पयसा जवेते।। अत्र शृङ्गारवात्सल्यरसपरिपाकेन सहैव माधुर्यगुणस्य उपमालङ्कारस्य च सौन्दर्यं चमत्कृतिजनकम् । ऋग्वेदस्य अमुष्मिन्मन्त्रे उत्तमकाव्यस्य निखिलं तत्त्वं सन्निहितं वर्तते। एवमेव गौतमर्षिर्यदा उदयस्थितां उषामपश्यत्तदा सा सुन्दरवासोपेता वक्षोद्घाटितनर्तकीव सा प्रतीयते स्म । सकलसंसारस्यालोकजननीयं तथैव गतिमती यथा गावः स्वगोष्ठेऽवतरन्ती- अधिपेशांसि वपते नृतूरिवापोर्णते वक्ष उस्त्रेव वर्जहम् । ज्योतिर्विश्वस्मै कृण्वती गावो न वज्रं व्युषा आवर्तम्॥ ऋग्वेदे एवम्बहूनि साहित्योदाहरणानि सन्ति । यथायं मन्त्रः अतिशयोक्तिपूर्णगहनभावाभिव्यक्तये ख्यातम्। द्वा सुपर्णा सयुजा सखाया समानं वृक्षमभिषस्वजाते। तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नत्रन्योऽभिचाकशीति ॥ अमुस्मिन् आत्मापरमात्माप्रकृतयः एतेषु त्रिषु उपमेयेषु द्वौ सयुजौ पक्षिणौ पिप्पलञ्चेतेषामुपमानानां कथनोद्धृतम्। एभिरूपमानैरुपमेयानां निगिरणे सत्यत्र अतिशयोक्तिरलङ्कारः इत्याचार्याणां मनीषा । एवं ऋग्वेदे भूयांसि सूक्तानि सन्ति यत्र कथातत्त्वं निहितं वर्तते यथा नदीसूक्तं (३.३३), यमयमीसंवादसूक्तं (१०.१०), १०.८६ तमे सूक्ते सरमापणीसंवादः इत्यादयः । एतेषां कथानकस्य विस्तरः परवर्तिग्रन्थेषु पुराणादिषु स्पष्टतया परिलक्ष्यते । इत एव भावं सङ्ग्रृह्य कालिदासादिमहान्तो कवयः विक्रमोर्वशीयम् इत्यादीन्युत्कृष्टग्रन्थान् विरचयामासुः। काव्यकवितादिशब्दानां प्रत्यक्षतया प्रयोगः वेदादिषु स्पष्टमेव । इतः परं यजुस्सामाथर्वादिष्वपि साहित्यप्रसङ्गो दृग्गोचरीभवति। एकत्र यजुर्वेदीयमन्त्रे वाचकलुप्तोपमायमकालङ्कारयोः नितरामुपन्यासो नेत्रपथमवतरति - सप्त तेऽग्ने समिधः सप्तजिह्वा सप्त ऋषयः सप्त धाम प्रियाणि। सप्त होता सप्तधा त्वा यजन्ति सप्त योनीरापृणस्व घृतेन स्वाहा।। अपि च कालक्रमेण तमसातटवासिना तपोरततापसेन तमसातटे प्रेमनिमग्नं क्रौञ्चयुगलं व्यालोकयता सहसा व्याधशरसरत्प्राणभूतं नरक्रौञ्चवधमवलोक्य क्रौञ्च्याः विपुलक्रन्दनमनुवीक्ष्य च छन्दोबद्धः द्रवितहृदयोद्गारः प्रकटितस्तत एव लौकिककवितापरम्परा समुद्भूतेति ऐतिह्यविदाम्मतम्। मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः । यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥ सैष सम्प्रति आदिकविः महर्षिवाल्मिकीरिति ख्यातिं प्राप्य, अमुना रामायणं नाम रामचरितोपाख्यानं व्यरचि। ततश्च वेदव्यासेन महाभारतमिति प्रोक्तम्। तत्रापि साहित्यस्य भूरितराणि तत्त्वानि निहितानि । धर्मशास्त्रेतिहासादिभावभरितेपि महाभारते समालोचकैः काव्यत्वं स्वीकृतम् । ध्वनिप्रतिष्ठापकाचार्येणानन्दवर्धनेन अत्यन्ततिरस्कृतवाच्यध्वनेः वाक्यप्रकाशताया उदाहरणं महाभारतात् समुपनिबद्धम् -
या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूताति सा निशा पश्यतो मुनेः ।। अत्र वाक्यप्रकाशतां स्पष्टयन् आचार्यो वक्ति- "अनेन वाक्येन निशार्यो न च जागरणार्थः कश्चिद् विवक्षितः । किं तर्हि? तत्त्वज्ञानावहितत्वम् अतत्त्वपराङ्मुखत्वं च मुनेः प्रतिपाद्यत इति तिरस्कृतवाच्यस्यास्य व्यञ्जकत्वम्” अयमभिप्रायः सञ्जायते यत् एतस्मिन् पद्ये निशायाः रात्रीरूपोऽर्थः जागर्ति इत्यस्य जागरणरूपोऽर्थः नैव विवक्षितः। तर्हि किमुचितमित्युच्यते ऋषयोऽतत्वपराङ्मुखाः तत्वज्ञानावहिताश्च भवन्ति इत्यर्थोऽत्र विवक्षितः तदत्रात्यन्ततिरस्कृतवाच्यध्वनेः व्यञ्जकता परिलक्ष्यते । अग्रे च विरूद्धरसानाम् अङ्गाङ्गीभावत्वेन प्रस्तुतीकरणे तत्र विरूद्धता न भवति। यथोदाहरणं - अयं स रशनोत्कर्षी पीनस्तनविमर्दनः । नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः।। एतदनन्तरमपि काव्यधारा अजस्रप्रवाहभूता जाता। पाणिनेः अष्टाध्यायी ग्रन्थे ‘अधिकृत्य कृते ग्रन्थे’ इति सूत्रे ‘लुबाख्यायिकेभ्यो बहुलमिति’ वार्तिकेन स्पष्टीभवति यत् तत्पूर्वकालेपि साहित्यधारा पल्लवितासीत्। पाणिनिकात्यायनपतञ्जलिभिरपि क्रमेण जाम्बवतीविजयम्, स्वर्गारोहणमिति महाकाव्यग्रन्थाः विरचिताः।