User:Debaki 333
अहम् ओरछा । अहं निवाड़ीमण्डले स्थितं प्राचीनं नगरम् अस्मि। पूर्वं स्वतन्त्रराज्यरूपेण मम परिचयः आसीत्। मम स्थापना षोडशशताब्दे बुन्देलाराजपूतेन रुद्रप्रतापेन कृता। माम् परितः सघनं वनम् अस्ति। अस्मिन् वनें सागौनवृक्षाः अधिकाः भवन्ति। सागौनकाष्ठं बहुमूल्यं भवति। मम वने सिंहाः, व्याघ्राः, हरिणाः, नौलगावः, वानराः स्वच्छन्दं विचरन्ति। अन्येऽपि वन्यपशवः निर्भयाः वसन्ति। एतेषां वन्यपशूनां रक्षणाय शासनेन इदानीम् अभयारण्यं निर्मितम्। मम परिक्षेत्रे चतस्रः प्रमुखाः नद्यः प्रवहन्ति। धसान जामिनी-जतारा- बेतवा नाम्न्यः नद्यः जलस्य आवश्यकतां पूरयन्ति, कृषि, वनं, भूमिं च सिञ्चन्ति। जामिनीनद्याः तीर जम्बुवृक्षाः अधिकाः भवन्ति। मम दक्षिणभागे जामिनीवेत्रवत्योः सङ्गमः अस्ति। तत्र सङ्गमात् जलस्य सप्तधाराः भवन्ति । अत एव जनाः लोकभाषायां तं स्थलं 'सप्तधारा' इति वदन्ति। वेत्रवत्याः तटे मम पुरातनः ऐतिहासिकः दुर्गः अस्ति। बहूनि मन्दिराणि अपि सन्ति। तत्रैव राज्ञां समाधयः अपि सन्ति। तटे एकं भव्यं रामराजामन्दिरं विद्यते। एतद् कलात्मकम् ऐतिहासिकं च मन्दिरम् अस्ति। मन्दिरे रामस्य, लक्ष्मणस्य, सीतायाश्च भव्याः, मनोरमाः प्रतिमाः प्रतिष्ठिताः। मन्दिरस्य उद्याने विषपानस्थलं वर्तते। अत्रैव वीरः हरदौलः विषपानं कृतवान्। मम भूमौ अनेके वीराः, धीराः, श्रेष्ठाः पुरुषाः अभवन्। तेषु हरदौलः मम अतिप्रियः आसीत्। सः राज्ञः जुझारसिंहस्य प्रियः अनुजः आसीत्। परं चाटुकारैः, धूर्तेः राज्ञः मनसि राज्ञीहरदौलसम्बन्धे सन्देहः उत्पादितः। हरदौलः महाराज्याः सम्मानरक्षणाय राज्ञः सन्देहनिवारणाय च विषपानं कृतवान्। अद्यापि तस्य बलिदानस्य स्मृतिः समस्ते क्षेत्रे सजीवा इव भाति। विवाहावसरे महिलाः तं प्रथमं पूजयन्ति।
मम दुर्गम् अपि सुदृढं कलात्मकं चास्ति। दरबारभवनम्, शीशभवनञ्च दुर्गस्य वैशिष्ट्यम् अस्ति। सर्वेषु भवनेषु स्थापत्यकलायाः सुन्दराणि चित्राणि मनांसि रञ्जयन्ति। भवनानां गवाक्षेषु अपि प्रस्तरपट्टिकासु सूक्ष्मं शिल्पकार्यं विद्यते। भित्तिकासु अपि मनोहराणि चित्राणि वर्तन्ते। दुर्गस्य अधस्तले काव्यकलाविदग्धायाः नर्तक्याः रायप्रवीणायाः आकर्षकं भवनमपि स्थितम्। वामे दर्शनीयं चतुर्भुजमन्दिरं विद्यते। अत्रापि प्रस्तरेषु कलायाः चित्रणम् अद्भुतं भाति। पुरतः सावन भादौनामकौ स्तम्भौ प्रसिद्धी।
ममपरिसरे एक पुष्पोद्यानं वर्तते। तत्र विविधवर्णानि पुष्पाणि पर्यटकानां चित्तं मोदयन्ति। उद्यानस्य नातिदूरे हिन्दीभाषायाः प्रसिद्धकवेः केशवदासस्य स्थानमस्ति। षोडशशताब्दात् आरभ्य मम निर्माणम् अद्यावधि चलति एव। परं सर्वाधिकं निर्माणकार्य महाराजवीरसिंहप्रथमस्य शासने अभवत्। मम इतिहासः रोचकः, कुतूहलपूर्णः च अस्ति। मध्यकाले मम विशिष्टं स्थानं महत्त्वञ्च आसीत्। अधुनाऽपि रामराजा तथैव विराजते। इदानीमपि जनाः प्रतिवर्षम् आगच्छन्ति माम् दृष्ट्वा च मुदिताः भवन्ति। अन्यानि अपि लक्ष्मीनारायणमन्दिर- फूलबाग-दीवान-हरदौलभवन-सुन्दरभवन-शहीदस्मारक प्रभृतीनि द्रष्टव्यानि स्थलानि सन्ति। प्रतिदिनं यात्रिणः आगत्य ममैतिहासिकं स्वरूपं दृष्ट्वा प्रसन्नाः भवन्ति तथा च तान् विलोक्य अहमपि प्रसनः भवामि।