Jump to content

User:69rajukumar

From Wikipedia, the free encyclopedia

भाषोत्पत्तिविषयका वादाः

भाषाविज्ञाने भाषोत्पत्तिविषयका विविधा वादाः प्रस्तूयन्ते। तत्र नव वादाः प्राधान्यं लभन्ते। तेषां समासतोऽत्र विवरणं प्रस्तूयते ।

१. दिव्योत्पत्तिवादः (Divine Theory) - भाषोत्पत्तिविषये प्राचीनतमोऽयं वादः। तदनुसारं यथैवेश्वरेण वेदज्ञानं प्रदत्तं तथैव वैदिकी भाषा संस्कृतभाषाऽपि ईश्वरप्रदत्तैव। दैवी-प्रेरणया मानवो भाषणे प्रवृत्तः । मानवजाति-जन्मना सहैव भाषाऽपि प्रादुरभूत्। अतएव ऋग्वेदे प्रोच्यते-

देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति ।(ऋग् ८.१००.११)

अइउण्-इत्यादि-चतुर्दशप्रत्याहारसूत्राणां प्रादुर्भावः शिवस्य ढक्कानादेन मन्यते। 'नृत्तावसाने नटराजराजो ननाद ढक्कां नवपञ्चवारम्' इति ।

परमेतन्मतं न विदुषां रुचिकरम्। (क) यदि भाषा ईश्वरप्रदत्ता स्यात् तर्हि कथं लोके विविधभाषोत्पत्तिः स्यात्। जीव-जन्तु-भाषादिवत् तद्-विपर्ययो न लक्ष्येत। (ख) ईश्वरसृष्टा भाषा प्रागेव पूर्णविकाससम्पन्ना स्यात्, तत्र विकासक्रमो न लक्ष्येत। किन्तु परस्ताच्च भाषासु विकासक्रमः संलक्ष्यते ।

समीक्षणम् - एतन्मतखण्डनम् आपाततः समीचीनमिव प्रतीयते। परन्तु विचारदृशा विविच्यते चेत् स्फुटमेतद् अवगम्यते यद् भाषा संस्कृतभाषा वा देवप्रदत्ता ईश्वरप्रदत्ता भवेन्न वा भवेत्, भाषोत्पत्तिः स्फुट-स्थान-प्रयत्नादिकरण-जन्या, इति तु निश्चप्रचम्। मानवः कथं भाषणे प्रवर्तते ? इति विचारे 'आत्मा बुद्ध्या समेत्यार्थान् मनो युक्ते विवक्षया। मनः कायाग्निमाहन्ति स प्रेरयति मारुतम्। मारुतस्तूरसि चरन् मन्द्रं जनयति स्वरम्।' (पा० शिक्षा ६,७) इत्यत्र न कस्यापि भाषाविदो विप्रतिपत्ति। अज्ञानां समवायेन, हिक्कादिरवेण, मनोभावाभिव्यञ्जकादिशब्दैश्च भाषोत्पत्तिः सुतरां दुर्लभा। एतच्च परस्ताद् व्याख्यास्यते ।

दिव्योत्पत्तिवादे एतत् पारमार्थिकं तथ्यं यत् संसृतौ मानव एव परिष्कृतध्वनियन्त्रयुक्तः प्रतिभोपेतश्च। 'प्रतिभा' ईश्वरप्रदत्ता, ईश्वरस्वरूपा वा। प्रतिभयैव ज्ञानं विज्ञानं च प्रस्तूयते। प्रतिभैव भाषणशक्तिप्रदानेन समं भाषाप्रदानेऽपि समर्था।

(२) संकेत-सिद्धान्तः (Agreement Theory) - एष एव वादः सांकेतिक उत्पत्तिवादः, निर्णयसिद्धान्त इत्यप्युच्यते। एतन्मतानुसारं हस्तादिसंकेतानाम् अपूर्णत्वम् अपर्यातत्वं चोवीक्ष्य मानवैः संभूय प्रति-वस्त्वर्थ ध्वनिसंकेता निर्धारिताः। तथा च भाषाया उत्पत्तिः ।

समीक्षणम् - एतन्मतमपि न विचारसहम्। (क) भाषाया अभावे कथं विचारविनिमयः ? (ख) विचारविनिमयस्य का भाषा ? (ग) कः कथं च संकेतशब्द- रचनाम् अकरोत् ? भाषाया अभावेऽपि चेद् विचारविनिमयः सम्पाद्येत, तर्हि का भाषाया आवश्यकता ? (घ) भामहेनोच्यते 'इयन्त ईदृशा वर्णा ईदृगर्थाभिधायिनः । व्यवहाराय लोकस्य प्रागित्थं समयः कृतः (काव्यालंकार ६.१३)। भाषाया अभावे कथमेष समयः सम्भवति ? एवं मतमेतद् निःसारमेव ।

(३) रणनसिद्धान्तः (Ding-dong Theory)- मतमिदं धातु-सिद्धान्त (Root Theory)-नाम्नापि निर्दिश्यते। सर्वप्रथमं मतमिदं प्लेटो (Plato)-महोदयेन संकेतितम्। प्रो० हेस (Heyse)-महोदयेन एतद् व्यवस्थितरूपेण प्रतिपादितम्। मैक्समूलर (Max Muller)-महोदयेन समर्थितमेतन्मतम्, परं परस्तात् तेनैव निरर्थकमिदमिति परित्यक्तम्। रणनसिद्धान्तानुसारं शब्दार्थयोः रहस्यात्मको नैसर्गिकः सम्बन्धः । सर्वस्मिन् वस्तुनि स्वीयो विशिष्टो ध्वनिः ।

समीक्षणम् - शब्दार्थयोर्नैसर्गिकसम्बन्धस्य कल्पना रहस्यात्मिकैव। विश्वस्य बहुभाषासु धातूनाम् अभावो विज्ञायते। तत्र धातुसिद्धान्तस्य का गतिर्भविष्यति ? घण्टानादे रणनवद् वस्तुदर्शने न कापि नित्यभावानुभूतिः ।

(४) मनोभावाभिव्यञ्जकतावादः (Interjectional Theory, Pooh-Pooh Theory)- एतन्मतानुसारं मानवो भावप्रधानः । सुख-दुःख-विस्मयघृणादिकाले भावावेशेन सहसैव किंचिद् उच्चारयति। ततो भाषोत्पत्तिः । यथा-धिक्, आः ।

समीक्षणम् - एतन्मतमपि न समीचीनम्। (क) विभिन्नभाषासु मनोभावाभि- व्यंजक-शब्दानाम् एकरूपत्वं न लक्ष्यते ? (ख) एतादृशानां शब्दानां संख्या न्यूनतमा। एते शब्दाश्च न भाषायाः प्रधानाङ्गभूताः । एतस्मिन् मते सुकरम् एतद् वक्तुं यद् उच्चारण- प्रक्रियाप्रारम्भार्थम् एष सिद्धान्तः किंचिदुपयोगी।

(५) श्रम-ध्वनि-सिद्धान्तः (Yo-he-ho Theory) - एष एव सिद्धान्तः श्रमापहारमूलकतावादोऽपि कथ्यते। न्वायर (Noire) महोदयः सिद्धान्तस्यास्य जनकः । श्रमकाले श्वासप्रश्वास-वेगात् स्वरतन्त्रीकम्पनेन तदनुरूप ध्वन्युच्चारणं जायते। श्रमिकाः श्रमकाले श्रमपरिहारार्थं केषांचित् शब्दानां प्रयोगं कुर्वन्ति। यथा हो-हो, हे, हूँ, छियो,

हियो-प्रभृतयः शब्दाः । क्रियया सहजसंगतो ध्वनिस्तत्क्रियाबोधक इति तेषा मतम्। समीक्षा - मतमेतद् निकृष्टतमम्। नैते शब्दा भाषायां किंचिदपि स्थानं गृह्णन्ति । न चैतेषां ध्वनीनां कोऽपि विशिष्टोऽर्थः । अत्र भावपक्षस्य अर्थपक्षस्य च शून्यत्व- मेवालोक्यते ।

(६) अनुकरणमूलकतावादः (Onomatopoeic Theory, Bow-Wow Theory)- एष वादो ध्वन्यात्मकानुकरणसिद्धान्तः, शब्दानुकरणवादः, शब्दानुकरण- मूलकतावादः, श्वध्वनिवादो वा कथ्यते। एतन्मतानुसारं ध्वन्यनुकरणमाश्रित्य कतिपया नामधेयशब्दाः प्रवर्तन्ते। यथा काँव-काँव-ध्वनिमाश्रित्य काकशब्दः । एवमेव कोकिल- दर्दुर-खटखट-पटपट-घर्घर-प्रभृतयः शब्दा वर्तन्ते ।

समीक्षा - मैक्समूलर (Max-Muller)-महोदयो वादस्यैतस्य निरर्थकत्वं कुक्कुर-ध्वनि-पर्यायं बाउ-वाउ-शब्दं प्रयुज्य प्रतिपादयति। एतादृशानां शब्दानां संख्याऽतीव लघ्वी। मतमेतद् हास्यास्पदमेव ।

(७) इंगित सिद्धान्तः (Gesture Theory) - एतन्मतानुसारं मानवः आङ्गिक चेष्टाभिः स्वीयं भावम् अभिव्यनक्ति। तदाधारेण केषांचित् शब्दानामुत्पत्तिर्जायते । डॉ० राये-महोदयः सिद्धान्तस्यास्य संस्थापकः। डार्विन (Darwin)-महोदयोऽपि असम्बद्धानां षड्भाषाणां तुलनात्मकेनाध्ययनेन एतदेव प्रमाणयति । रिचार्ड (Richard)- महोदयः स्वीये Human Speech ग्रन्थे Oral Gesture Theory मौखिकेङ्गित- सिद्धान्तनाम्ना एतत् प्रस्तौति। एलेक्जेण्डर जोहान्सन (Alexander Johanson)- महोदयोऽपि प्रायेणैतत् समर्थयते। सोऽयं भाषाविकासस्य स्तरचतुष्टयं मनुते। यथा-ओष्ठ- सम्मेलनेन पानार्थद्योतने पा-शब्दमाश्रित्य पानार्थे पा-धातोः प्रयोगः ।

एतन्मतमपि न विद्वद्भिः स्वीक्रियते। अनुकरणमूलकाः पा-गा-माँ-प्रभृतयः शब्दा अल्पा एव सन्ति। मुखेन हस्तादिसम्पर्कमाश्रित्य ध्वनीनां शब्दानां चोत्पत्तिर्न विचारसहा। जोहान्सनमहोदयः ध्वनीनाम् अर्थानां च सयुक्तिकसम्बन्ध स्थापने न प्रभवति।

(८) प्रतीकवादः (Symbolic Theory) - एतन्मतानुसारं केचन शब्दा यं कमपि सम्बन्धमाश्रित्य प्रवृत्ताः, स्वल्पेन रूपेण बृहदर्थं द्योतयन्ति। एते शब्दाः प्रायशो बालशब्दाः (Nursery words) सन्ति। यथा माता, पिता, भ्राता, तात, चाचा- चाची-प्रभृतयः। एते प्रतीकरूपेण प्रयुज्यन्ते। एवमेव धातवोऽपि प्रवर्तन्ते यथा-पा, पिबामि, घ्रा, जिघ्रामि-प्रभृतयः ।

एतन्मतमपि इंगितसिद्धान्तेन साम्यं धत्ते। एतन्मतमपि न भाषोत्पत्तिसाधने प्रभवति। स्थूलभावबोधका एते तातप्रभृतयः शब्दाः। सूक्ष्मभावबोधकानां शब्दानां कथमाविर्भाव इति नैतेन विशदीक्रियते ।

(९) समन्वयसिद्धान्तः - प्रसिद्धो भाषावित् हेनरी स्वीट (Henry Sweet)-

महाभागः समन्वयसिद्धान्तं समन्वितविकासवादं वा वरिष्ठं मनुते। तन्मतानुसारं सर्वेषां सिद्धान्तानां समन्वय आवश्यकः। मनोभावाभिव्यञ्जकतावादः, रणनसिद्धान्तः, श्रमध्वनि- सिद्धान्तश्च भाषोत्पत्तेः प्राथमिकीम् अवस्थां द्योतयन्ति। प्रतीकवादः, औपचारिक- प्रयोगाश्च द्वितीयाम् अवस्थां प्रकटयन्ति। तदनुसारम् अर्थ-विकासप्रक्रियाम् आश्रित्य अर्थ-विस्तारादिप्रक्रिया प्रावर्तत। प्रतीक-शब्दानाम् औपचारिक शब्दानां लाक्षणिकानां च शब्दानां संख्याऽनुदिनं वर्धते वर्धिष्यते च ।

(१०) दिव्योत्पत्तिवाद-समीक्षा- दिव्योत्पत्तिवादः सामान्यतया सर्वैरेव भाषा-विद्भिर्निरस्यते। एवं सति दैवी भाषा एकरूपा स्यात्, विश्वभाषा चैका स्यात्। परन्तु सर्वमेतत् संस्कृतभाषाया वेदानां च प्रामाण्ये विप्रतिपत्ति प्रतिपादयति। विषयोऽयं वैज्ञानिकदृष्ट्या दार्शनिकदृष्ट्या च परीक्ष्यते चेत् तर्हि न तथा निरसनमर्हति। अत्र महर्षेः पतञ्जलेः, भर्तृहरेः, हेराक्लितुस (Heraclitus)-डेमोक्रितुस (Democritus)-प्रभृतीनां विचाराः सर्वथा विवेचनमर्हन्ति ।

महर्षिणा पतञ्जलिना महाभाष्ये प्रोच्यते 'सिद्धे शब्दार्थ सम्बन्धे' (महा० आ०१), नित्यानि छन्दांसि, या त्वसौ वर्णानुपूर्वी साऽनित्या (महाभाष्य) अर्थात् शब्दार्थ-सम्बन्धो नित्यः। वेदानां वर्णानुपूर्वक्रमोऽनित्यः। ज्ञानं तु नित्यम्। ज्ञानं कथं नित्यम् ? संस्कारवशात् प्रतिमानवं ज्ञानं नित्यत्वेन भासते। प्रतिभा प्रतिमानवं भिद्यते, प्रवर्तते च। प्रतिभा ब्रह्मण ईश्वरस्य वा साक्षाद् रूपम्। प्रतिभैव जन्मान्तरगतमपि ज्ञानं समाहृत्य लोके निदधाति। तन्मूलैव सर्वस्यापि जगतः प्रवृत्तिः। प्रतिभामूलैव भाषोत्पत्तिः । प्रतिभा च दैवोंऽशः। प्रतिभैव यथायथं शब्दान् प्रवर्तयति। प्रतिभाजुषां यथैव तदर्थावभासः, वस्तुप्रतीतिर्वा भवति, तथैव शब्दनिर्माणं प्रतिभावद्भिर्विधीयते। एवं भाषाभेदो भावभेदः शब्दभेदश्च लक्ष्यते। को नु शिक्षयति पक्षि-पश्वादिकं भाषणम् ? लूता कथं जाल-निर्माणे प्रभवति ? अश्व-कुक्कुरादयः स्व-स्वभावजं धर्मं कथं प्रतिपद्यन्ते ? इत्यत्र भर्तृहरिणा प्रोच्यते यत् सर्वमेतत् प्रतिभावशत एव। प्रतिभैव शब्दस्यात्मा। सा च प्रतिमानवम् आत्मरूपेण स्थितिं निधत्ते। उक्तं च भर्तृहरिणा वाक्यपदीये-

यथा द्रव्यविशेषाणां परिपाकैरयत्नजाः ।

मन्दादिशक्तयो दृष्टाः प्रतिभास्तद्वतां तथा ॥ (वाक्य० २.१५०)

स्वरवृत्ति विकुरुते मधौ पुंस्कोकिलस्य कः ।

जन्त्वादयः कुलायादि-करणे केन शिक्षिताः ॥ (वाक्य० २.१५१)

आहार-प्रीत्यभिद्वेष-प्लवनादिक्रियासु कः ।

जात्यन्वयप्रसिद्धासु प्रयोक्ता मृगपक्षिणाम् ।। (वाक्य० २.१५२)

हेराक्लितुसो मन्यते- 'शब्दानाम् अस्तित्वं प्रकृतौ वर्तते। शब्दाः पदार्थानां छायावद् वर्तन्ते। मानवः स्वविचारानुरूपं पदार्थानां नामानि निर्धारयति।' दार्शनिको डेमोक्रितुसो मन्यते- 'भाषा जन्या। शब्दा भावानां मूर्तयः, कलाकृतयश्च।' एपीक्यूरसो भाषायाः प्रकृति-प्रतिध्वनिमूलत्वं निराचष्टे, तथा सति भाषा साम्यं स्यात्। हुमबोल्टोऽपि एतदेव समर्थयते।

भाषा ज्ञानमूला। मनोभावाभिव्यंजकतादयो वादाः न ज्ञानमूलत्वं भाषाया मन्यन्ते । यदि साधु परीक्ष्यते तर्हि सत्यां भावाभिव्यक्तेरिच्छायाम् 'आवश्यकता आविष्काराणां जननी' इति सिद्धान्तम् अनुसृत्य केचन भावाश्चेतसि आविर्भवन्ति। प्रतिभावशात् तदर्थं कश्चन शब्द उपादीयते। तदुत्पत्तिः प्राक् संकेतमूला भवति। वस्तुप्रयोजनम् उपादाय कश्चन शब्दः तदर्थम् अभिधातुम् उपादीयते। प्रतिभावतां तथा शब्दनिर्माणं प्रारभते। सामान्यो लोकस्तं शब्दम् आदत्ते प्रयुङ्क्ते च । एवं भाषोत्पत्तिः प्राक् संकेतमूला (Symbolic) भवति। उपचारपद्धत्या आश्रयणेन विविधेष्वर्थेषु एकस्यापि शब्दस्य प्रयोगः प्रारभ्यते। परिज्ञाते सति एकदा शब्दनिर्माणप्रकारे अन्यैरपि प्रतिभावद्भिः अन्ये शब्दा आविष्क्रियन्ते।

एवं भाषाया प्रतिभामूलकत्वं न विप्रतिपत्तिविषयः। प्रतिभा च दैवी। एवं दिव्योत्पत्तिवादः समस्यासमाधानं कर्तुं प्रभवति ।