Jump to content

User:परिस्मिता कलिता

From Wikipedia, the free encyclopedia
           दृश्यसाधनानि

दृश्यसाधनानां सर्वोत्तमं साधनं वर्तते "श्यामफलकम्" Blackboard शब्दानां विग्रहः, सन्धिः, समासः, विभक्तिप्रयोगः इत्यादीनां सर्वत्र उपयोगः सुमहान् वर्तते। अतः साधनमिदं यथासम्भवं प्रयुञ्जीत । श्यामफलके वर्णचित्रं, रेखाचित्रं, चित्रणं इति कृत्वा व्याकरणतत्वानि अवगमेत् । वर्णचित्रस्य प्रयोगः विविधरूपेण भवितुमर्हति। सूत्राणि नियमान्, अक्षराणां संयोगः, पदच्छेदः, विभक्तयः, धातूनां प्रयोगः, उपसर्गाणां विवरणम्, अव्ययानि वहवो विषया वर्णचित्रद्वारा चित्रयितुं योग्याः। चित्रं, रेखाचित्रं, सूचकचित्राण्यपि पूर्वोक्तरीत्या प्रयोगिता भजन्ते। "चित्रविस्तारकः" चित्रविस्तृतरूपेण प्रतिबिम्वयति। अनेन यन्त्रेण वर्णचित्रं, रेखाचित्रं सूचकचित्रादिकं विस्तृताकारेण दृष्टिपथमायाति । "वस्त्रफलकं":- विशेषवस्त्रेण निर्मितं भवति । अन्त्र पूर्वमेव अध्यापकः व्याकरणत्तत्त्वानि विलिख्य कक्षायां यथावसरं प्रयोक्तुं शक्नुयात्। "चित्रप्रकाशकः"-उपयोगी शिक्षणपदार्थः, चित्रपट्टिका, चित्रपत्रञ्चानेन प्रतिबिम्वते भवतः । चित्रपट्टिकायां चित्रपत्रे वा विभिन्नरूपेण व्याकरणनियमानां, सूत्राणां, संयुक्ताक्षराणां, सन्धि-समास-उपसर्गाणां, शब्दानां, धातूनां च लेखनं सम्भवति। चित्राणि च चित्रितानि भवन्ति । येन प्रत्यक्षविधिना अर्थबोध: सौलभ्येन जायते । संस्कृतशिक्षणे प्रस्तावनायां विषयबोधने च प्रधानतया चित्राणां प्रयोगः कर्तुं शक्यते। महापुरुषाणां, नेतृणां, पशुपक्षीणां, वस्तूनां, प्राकृतिक दृश्यानाम्, ऐतिहासिकभावनानाञ्च चित्राणि उपयुक्तानि स्युः। प्रदर्शनी [projector] संस्कृतशिक्षण-प्राकृतिक- दृश्यानि, यात्रावर्णनम्, उत्सवाश्च प्रदर्शयितुं शक्यते । भाषायाः, साहित्यस्य च शिक्षणे एतदत्यन्तमुपकारकं भवति। प्रतिकृति आदि साधनानां निर्माणे छात्राणामपि सहभागिता स्यात् तर्हि तेषां ज्ञानं वर्धेत ।