User:उमेश चन्द्र परगाई
प्रायोजनाविधे अपरं नाम योजनाविधि इत्यपि प्रयुज्यते। प्राचीन भारतेऽपि अस्य प्रयोगः वेदेषु, उपनिषत्सु तथा इतिहासपुराणादि ग्रन्थेष्वपि दृश्यते। अनेन विधिना अध्ययनम् अध्यापनं सहैव भवति। अनेन विविधाः विषयाः पशुपालनं ब्रह्मज्ञानप्राप्ति अस्त्रशस्त्रादिप्रामाण्यं, व्याकरणशिक्षणादीनाम् अध्ययनम् अध्यापनं भवितुमर्हति। शतपथब्राह्मणे यदा सत्यकामो जाबालः गौतमस्य पाश्वें ज्ञानार्जनाय गच्छति, तदा सः जाबालं पृच्छति, "कस्मात् गोत्राद् त्वम् उत्पन्नः ? स उत्तरति अहं गोत्रविषयं न जानामि, यतो हि मम माता बहुजनानां सेवां शुश्रूषां च करोति स्म। सा मम पितृविषये किमपि न जानाति। अस्य सत्यकथनेन गौतमः प्रसन्नो भूत्वा तम् अवोचत् त्वं ब्राह्मणपुत्र एव प्रतिभाति। यतो हि इत्थं प्रकारेण सत्यवचनं वदसि। गौतमः तं शिष्यरूपेण ग्रहणमकरोत्। तथा च चतुःशतं संख्यकान् गावः सहस्रसंख्यकान् करणाय अददात्। स अङ्गीचकार तथा च आसां गवानां संख्या सहस्रं करिष्यामि इति योजनां परिकल्प्य प्रायच्छत्। कठोपनिषदि वर्णितं यत्- एकस्मिन् दिवसे नचिकेतायाः पिता दुग्धप्रदाने असमर्थः जराजीर्णधेनवः ब्राह्मणाय अयच्छत्। तद् दृष्टवा नचिकेता पितरम् अकथयत्, "एतत्तु न उचितं प्रतिभाति।" तदा तस्य पिता क्रुद्धो भूत्वा तं यमराजसदनं ज्ञानग्रहणाय प्रेषितवान्। ब्रह्मजिज्ञासुभूत्वा बलवती योजना विचिन्त्य यमराजमाश्रित्य ब्रह्मज्ञानम् अवाप्नोत् इति कठोपनिषदि योजनाविधेः प्रारूपमपि दृश्यते । महाभारतेऽपि
यदा एकलव्यः गुरुसकाशम् अस्त्रशस्त्राणां ज्ञानप्राप्तये गच्छति, तदा गुरुः तं नाङ्गीचकार। तदा सः गुरुं प्रति सश्रद्धो भूत्वा अस्त्रशस्त्रज्ञाने नैपुण्यप्राप्तये स्वयमेव सुविचिन्त्य अनुकूलं वातावरणं निर्मितवान्। अभ्यासस्य नियमः, एकाग्रतायाः नियमः तथा स्वतन्त्रतायाः नियमेत्यादीनि मनोवैज्ञानिकनियमानामाधारेण कामपि एकां सुयोजनां परिकल्प्य प्रायच्छत्त। तत्र साफल्यमपि प्राप्तवान् इति। इत्थं प्रकारेण योजनाविधेः प्रमाणानि लभ्यन्ते।
उपर्युक्तोदाहरणैरिदं प्रतीयते यत् प्रायोजनाविधेः बीजानि सुदूरातीते अस्माकं देशे आसन्।
डब्ल्यू एच. किलपेट्रिक
"योजना मनोयोगेन आचरणाय एका सारगर्भिता प्रक्रिया अस्ति। या सामाजिकवातावरणनिर्माणे अग्रेसरो भवति।"
"A project is a whole hearted purposeful activity proceeding in a social environment."
- W. H. Kilptrick
उपर्युक्तकथनेन प्रतिभाति यत् प्रायोजनाविधिः पूर्णतया नवीनो नास्ति।
रूसोमहोदयः स्वकीय 'ईमली' Emile नाम्नः ग्रन्थस्य तृतीयखण्डे प्रायोजनाविधेः उल्लेखं चकार। फ्रोबेल (Frable) महोदयः अपि स्वकीय "Education of Man" नाम्नि ग्रन्थे अनेकानां विधीनामुल्लेखः कृतवान्। तत्र सः प्रायोजनाविधेः उपरि अपि विचारम् अकरोत्।
विलियम कब्बेट - William Cobbett महोदयेन अपि 'एड्वाइस टू यंगमैन' 'Advice to Youngman' नाम्नि ग्रन्थे बालकाय बालिकायै च ग्रामीणयोजनानां